🏠 Home

19 त्यक्ताहङ्कारेण भाररहितेन भूयते

गीता सोपानम् · Chapter 19 · pp. 128–133 · भावेप्रयोगः (वर्तमानकाले)

📖 कथा · Story — एतां कथां सावधानतया उच्चैः पठत अवगच्छत च (Read this story carefully aloud, and understand it)

🖍️ Pink bold = भावे verbs printed bold in the book. Blue bold = कर्मणि (passive) verbs (not bold in the book).
एकः काकः।
There is a crow.
तेन आकाशे डीयते।
It is flying in the sky.
तेन सह अन्यैः अपि पक्षिभिः डीयते।
Other birds are flying along with it too.
तैः एकत्र मांसखण्डः दृश्यते।
They see a piece of meat in one spot.
मांसखण्डं मुखेन गृहीत्वा काकेन पलाय्यते।
The crow grabs the meat in its beak and flies off.
अनुक्षणं तस्य पृष्ठतः अन्यैः काकैः गृध्रैः च धाव्यते।
Right away, other crows and vultures chase after it.
मांसखण्डं रक्षितुम् अनेन काकेन ततोऽपि उपरि डीयते।
To keep the meat safe, this crow flies even higher.
काकैः गृध्रैः चापि स्वस्य श्रान्तताम् अपरिगणय्य तस्य पृष्ठतः डीयते।
The crows and vultures ignore how tired they are and keep flying after it.
अनेन काकेन तु कम्प्यते।
But this crow starts to shake.
तस्मात् काकस्य मुखात् मांसखण्डेन पत्यते।
So the meat drops from the crow's beak.
अधः पतितं मांसखण्डं ग्रहीतुम् अन्यैः काकैः गृध्रैश्च धाव्यते।
The other crows and vultures rush to grab the meat that fell.
तदा काकेन अन्यपक्षिभ्यः मुक्तेन भूयते।
Then the crow is free of the other birds.
तेन ज्ञायते यत् अधुना मया स्वतन्त्रेण भूयते इति।
It realises, “Now I am free.”
मांसखण्डेन इव अस्मासु अपि अहङ्कारेण भूयते।
Like that piece of meat, there is ego in us too.
यदि सः अहङ्कारः त्यक्तः भवति तर्हि जीवनेन भाररहितेन भूयते।
If we give up that ego, life becomes free of its burden.
मुक्तेन काकेन गगनसौन्दर्यं यथा द्रष्टुं शक्यते तथैव अस्माभिः अपि जीवनसौन्दर्यं द्रष्टुं शक्यते।
Just as the free crow can enjoy the beauty of the sky, we too can enjoy the beauty of life.

📘 पाठः · Grammar (pp. 128–130)

एतानि वाक्यानि सावधानतया उच्चैः पठत – Read these sentences carefully, aloud.
काकेन आकाशे डीयते।
मम सन्तोषेण भूयते।
कन्दुकेन पत्यते।
सूर्येण प्रकाश्यते।
तेन धाव्यते।
वृक्षैः कम्प्यते।
पुष्पेण विकस्यते।
शुनकैः भष्यते।
गाण्डीवेन स्रस्यते।
पार्थेन खिद्यते।
योधैः युद्ध्यते।
अश्वेन स्थीयते।

एतेषु वाक्येषु प्रयुक्ताः सर्वेऽपि अकर्मकाः धातवः सन्ति। All the roots used in these sentences are intransitive (अकर्मक – no object).

☞ अकर्मकधातूनां कर्तरिप्रयोगः भावेप्रयोगश्च सम्भवतः। Intransitive roots can be used in the active (कर्तरि) and in the impersonal (भावे) voice.
यथा –
कर्तरिप्रयोगःभावेप्रयोगः
छात्रः उपविशति।छात्रेण उपविश्यते।
एते उत्तिष्ठन्ति।एतैः उत्थीयते।
शिशुः रोदिति।शिशुना रुद्यते।
भगिनी हसति।भगिन्या हस्यते।
नर्तक्यः नृत्यन्ति।नर्तकीभिः नृत्यते।
अवधेयम्
एतेषां वाक्यानां परिशीलनानन्तरं वयं भावेप्रयोगस्य नियमान् एवं संग्रहीतुं शक्नुमः – Rules of the भावे (impersonal) voice
  1. भावेप्रयोगे कर्तृपदं तृतीयाविभक्त्यन्तं भवति। The doer is in the 3rd case (instrumental).
  2. भावेप्रयोगे कर्मपदं न भवति। There is no object.
  3. भावेप्रयोगे क्रियापदं सर्वदा प्रथमपुरुष–एकवचनान्तमेव भवति। The verb is always 3rd person singular.
    यथा – पत्यते, धाव्यते। (पत्येते, धाव्येते – इत्यादीनां रूपाणां प्रयोगः कदापि न सम्भवति। एवमेव मध्यमपुरुषस्य उत्तमपुरुषस्य च अपि न सम्भवति।) Forms like पत्येते / धाव्येते (dual) never occur; nor do 2nd- or 1st-person forms.

✏️ अभ्यासः · Exercises

✍️ Type in Devanagari, or use the ⌨️ ITRANS helper (bottom-right). Spaces, ।, and म्/ं at word-end are ignored when checking.
अभ्यासः
1. एतानि वाक्यानि भावेप्रयोगे परिवर्तयत – Change these sentences into the भावे voice.
कर्तरिप्रयोगःभावे प्रयोगः
1. पुष्पं विकसति।पुष्पेण विकस्यते।
2. शिशवः रुदन्ति।
3. बालः उत्तिष्ठति।
4. जनाः उपविशन्ति।
5. सः कुप्यति।
6. शुनकाः भषन्ति।
7. त्वं खिद्यसे।
8. उन्मत्ताः हसन्ति।
9. सिंहः गर्जति।
10. दीपाः ज्वलन्ति।
11. नर्तकी नृत्यति।
12. महिलाः लज्जन्ते।
13. पापं क्षयति।
14. गङ्गा वहति।
15. आरक्षकाः वसन्ति।
16. सस्यं वर्धते।
17. वयं तिष्ठामः।
18. शाखाः कम्पन्ते।
19. चित्रं शोभते।
20. पर्यटकाः भ्रमन्ति।
अवधेयम्
सकर्मकाः धातवः
कर्तरिप्रयोगःकर्मणिप्रयोगः
अकर्मकाः धातवः
कर्तरिप्रयोगःभावेप्रयोगः
Transitive roots (with an object): active or passive (कर्मणि). Intransitive roots (no object): active or impersonal (भावे).
प्रयोगपरिवर्तनसन्दर्भे अवधातव्याः केचन अंशाः सन्ति। यथा – Some points to remember when changing voice

अ. प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति। परन्तु वाक्ये स्थितानाम् अन्येषां शब्दानां परिवर्तनं न भवति। Only the doer, object and verb change; the other words stay the same.

यथा – सुरेशः प्रतिदिनं सायङ्काले गृहे पाठं पठति।
एतस्य कर्मणि प्रयोगः यथा – सुरेशेन सायङ्काले गृहे पाठः पठ्यते।

अत्र प्रतिदिनं सायङ्काले गृहे – इत्येतेषां रूपाणां परिवर्तनं न जातम्। तानि रूपाणि कर्तरिप्रयोगे कर्मणिप्रयोगे च समानानि एव। एवमेव भावेप्रयोगे अपि। Here प्रतिदिनं, सायङ्काले, गृहे did not change. (The book’s passive sentence leaves out प्रतिदिनं – it should read सुरेशेन प्रतिदिनं सायङ्काले गृहे पाठः पठ्यते।) Same in the भावे voice.

2. उपरितनान् अंशान् मनसि निधाय अधः लिखितायाः कथायाः कर्मणि भावे वा प्रयोगपरिवर्तनं कुरुत – Keeping the points above in mind, change this story into the कर्मणि or भावे voice.
1. एकः संन्यासी अस्ति।
2. सः भिक्षाटनं कृत्वा जीवति।
3. प्रतिदिनं प्रभाते एव सः प्रतिष्ठते।
4. सः सर्वदा सन्तुष्टः भवति।
5. कदाचित् सः भिक्षाटने किमपि न प्राप्नोति।
6. तथापि न शोचति न किमपि काङ्क्षति।
7. एवं सः सर्वदा एकभावेन तिष्ठति।
8. निन्दायां प्रशंसायां वा सः समानः एव भवति।
9. सुखं दुःखं च तं न प्रभावयति।
10. सः भगवतः आराधनां करोति।
11. सः भगवतः अतीव प्रियः अस्ति।
12. सः ध्यायति चेत् भगवन्तमेव।
13. सः पश्यति चेत् भगवन्तमेव।
14. सः भावयति चेत् भगवन्तमेव।
15. एवं सः सर्वदा सर्वत्र सर्वथा भगवन्मयः वर्तते।

आ. प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य वा विशेषणानि सन्ति चेत् तेषां रूपाणामपि विभक्तिपरिवर्तनं भवति। Adjectives of the doer or object also change case.

यथा – कुशलः लेखकः उत्तमां कथां लिखति।
एतस्य वाक्यस्य कर्मणिप्रयोगः एवं भवति – कुशलेन लेखकेन उत्तमा कथा लिख्यते।

अत्र विशेषणानामपि परिवर्तनं विशेष्यानुगुणं भवति। The adjectives change to match the nouns they describe.

अभ्यासः
3. एतेषां वाक्यानां प्रयोगपरिवर्तनं यथोदाहरणं कुरुत – Change the voice of these sentences, as in the example. (Gita 10: “Among X, Krishna is Y.”)
उदा – कृष्णः आदित्यानां विष्णुः अस्ति।
कृष्णेन आदित्यानां विष्णुना भूयते।
कृष्णः
ज्योतिषां रविः
वेदानां सामवेदः
नक्षत्राणां शशी
इन्द्रियाणां मनः
भूतानां चेतना
सरसां सागरः
सर्ववृक्षाणाम् अश्वत्थः
पक्षिणां वैनतेयः
आयुधानां वज्रम्
स्रोतसां जाह्नवी
अक्षराणाम् अकारः
छन्दसां गायत्री
ज्ञानवतां ज्ञानम्
सत्त्ववतां सत्त्वम्
अस्ति।
4. कर्मणिप्रयोगेण भावेप्रयोगेण च लिखिताम् एतां कथां पठित्वा कर्तरिप्रयोगेण परिवर्तयत – Read this story written in the कर्मणि and भावे voices, and change it into the active (कर्तरि) voice.
1. एकेन मोहाविष्टेन भूयते।
2. तेन समचित्तेन न भूयते।
3. तेन कर्मफलं प्राधान्येन चिन्त्यते।
4. एकदा तेन एकः गुरुः प्राप्यते।
5. गुरुणा उपदेशः क्रियते।
6. एतस्य मनसि प्रश्नैः उद्भूयते।
7. बहुभिः गीतायाः उदाहरणैः गुरुणा सः बोध्यते।
8. तेनापि मध्ये मध्ये जिज्ञासा प्रकट्यते।
9. अन्ततो गत्वा तेन सत्त्वम् एकत्वं च अवगम्यते।
10. तदनुसारेण आचरणस्य निश्चयः क्रियते।
11. तेन सन्तुष्टेन जीवनं क्रियते।
12. अन्यैः तस्य जीवनम् अवलोक्यते।
13. तेन तत्त्वं बोध्यते।
14. सर्वैः एतत् इष्यते।
15. एतैः स्वजीवने तदाचरितुं प्रयत्लः विधीयते।
16. एवं तेन सार्थकं जीवनं क्रियते।
सूक्तिः – जितक्रोधेन सर्वं हि जगदेतद्विजीयते। The whole world is won by the one who has conquered anger.