☞ पूर्वम् अस्माभिः पठितानि वाक्यानि एतादृशानि – Sentences we studied earlier were like these (Bold = कर्ता + verb)
बालः पाठं पठति।
अहं कार्यं करोमि।
त्वं मन्त्रान् स्मरसि।
छात्रः विषयं जानाति।
वयं देवं नमामः।
यूयं विद्यालयं गच्छथ।
☞ एतानि वाक्यानि परिशीलयत – Study these sentences
कर्तरिप्रयोगः
कर्मणिप्रयोगः
बालः पाषाणं क्षिपति।
बालेन पाषाणः क्षिप्यते।
सेवकः धनम् इच्छति।
सेवकेन धनम् इष्यते।
सा शाटिकां क्षालयति।
तया शाटिका क्षाल्यते।
अहं लेखनीं नयामि।
मया लेखनी नीयते।
बालिकाः प्रश्नं लिखन्ति।
बालिकाभिः प्रश्नः लिख्यते।
भवान् घटीः पश्यति।
भवता घट्यः दृश्यन्ते।
त्वम् आसन्दान् मार्जयसि।
त्वया आसन्दाः मार्ज्यन्ते।
वयम् आपणं गच्छामः।
अस्माभिः आपणः गम्यते।
अवधेयम्
☞ कर्तरिप्रयोगसम्बद्धवाक्यानां परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् एवं संग्रहीतुं शक्नुमः – Rules of the active (कर्तरि) voice
कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्त्यन्तं भवति।Subject is in the 1st case (nominative). यथा – 'छात्रः श्लोकं पठति' इत्यत्र छात्रः इति कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति।
कर्तरिप्रयोगे कर्मपदं (यदि भवति तर्हि) द्वितीयाविभक्त्यन्तं भवति।Object (if any) is in the 2nd case (accusative). यथा – 'लेखकः ग्रन्थं लिखति' इत्यत्र ग्रन्थम् इति द्वितीयाविभक्त्यन्तम् अस्ति।
कर्तरिप्रयोगे कर्तुः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति।The verb agrees with the subject in number and person. (कर्तृपदम् एकवचनान्तं चेत् क्रियापदम् अपि एकवचनान्तं भवति। कर्तृपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदम् अपि द्विवचनान्तं बहुवचनान्तं वा भवति। कर्तारम् अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति।) यथा –
क)
छात्रः श्लोकं पठति। (वचनसम्बन्धः)
छात्रौ श्लोकं पठतः। (वचनसम्बन्धः)
छात्राः श्लोकं पठन्ति। (वचनसम्बन्धः)
ख)
सः कार्यं करोति। (पुरुषसम्बन्धः)
त्वं कार्यं करोषि। (पुरुषसम्बन्धः)
अहं कार्यं करोमि। (पुरुषसम्बन्धः)
एते अंशाः अस्माभिः पूर्वमपि परिशीलिताः स्युः एव। We have probably studied these points before.
☞ एवमेव कर्मणिप्रयोगसम्बद्धवाक्यानि परिशील्य वयं कर्मणिप्रयोगस्य नियमान् एवं संग्रहीतुं शक्नुमः – Rules of the passive (कर्मणि) voice
कर्मणिप्रयोगे कर्तृपदं तृतीयाविभक्त्यन्तं भवति।Doer is in the 3rd case (instrumental).
कर्मणिप्रयोगे कर्मपदं प्रथमाविभक्त्यन्तं भवति।Object is in the 1st case (nominative).
कर्मणिप्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति।The verb agrees with the object in number and person. (कर्मपदम् एकवचनान्तं चेत् क्रियापदम् अपि एकवचनान्तं भवति। कर्मपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदम् अपि द्विवचनान्तं बहुवचनान्तं वा भवति। कर्म अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति।) यथा –
क)
बालकेन चाकलेहःखाद्यते। (वचनसम्बन्धः)
बालकेन चाकलेहौखाद्येते। (वचनसम्बन्धः)
बालकेन चाकलेहाःखाद्यन्ते। (वचनसम्बन्धः)
ख)
बालकेन सःताड्यते। (पुरुषसम्बन्धः)
बालकेन त्वंताड्यसे। (पुरुषसम्बन्धः)
बालकेन अहंताड्ये। (पुरुषसम्बन्धः)
अवधेयम्
वचनसम्बन्धः पुरुषसम्बन्धः च
कर्तरिप्रयोगः
बालकः(प्र.वि.)
श्लोकं(द्वि.वि.)
पठति
कर्तृपदम्
कर्मपदम्
क्रियापदम्
कर्मणिप्रयोगः
बालकेन(तृ.वि.)
श्लोकः(प्र.वि.)
पठ्यते[धातुः + य + ते]
वचनसम्बन्धः पुरुषसम्बन्धः च
Active: the verb agrees with the doer (बालकः). Passive: the verb agrees with the object (श्लोकः); verb = root + य + ते.
➜ कर्मणिप्रयोगे वाक्यानि एवं भवन्ति – In the passive, sentences go like this
प्रथमपुरुषः
बालेन सः दृश्यते।
बालेन तौ दृश्येते।
बालेन ते दृश्यन्ते।
मध्यमपुरुषः
बालेन त्वं दृश्यसे।
बालेन युवां दृश्येथे।
बालेन यूयं दृश्यध्वे।
उत्तमपुरुषः
बालेन अहं दृश्ये।
बालेन आवां दृश्यावहे।
बालेन वयं दृश्यामहे।
अवधेयम्
कर्तरिप्रयोगे
कर्मणिप्रयोगे
परस्मैपदी
पठति
पठ् + य + ते
आत्मनेपदी
सेवते
सेव् + य + ते
उपरि दत्तेषु धातुरूपेषु परस्मैपदिनाम् अन्ते 'ति' इति, आत्मनेपदिनाम् अन्ते 'ते' इति च अस्ति। Above, parasmaipadi forms end in ति, atmanepadi in ते.
कर्मणि प्रयोगे तु उभयविधानाम् अपि धातूनाम् अन्ते 'ते' इति आत्मनेपदिरूपमेव भवति। In the passive, both kinds take the atmanepadi ending ते.
कर्मणिप्रयोगे धातोः अनन्तरं 'य' इति श्रूयते। In the passive, य is heard after the root.
✏️ अभ्यासः · Exercises
✍️ Type in Devanagari, or use the ⌨️ ITRANS helper (bottom-right). Spaces, ।, and म्/ं at word-end are ignored when checking.
अभ्यासः
1. अधः क्रियापदैः सह मूलधातवः अपि निर्दिष्टाः सन्ति। तेषां यथानिर्देशं कर्मणि रूपं लिखत– Verbs are given with their roots. Write the passive form as shown.
पठति (पठ्)पठ् + य + तेपठ्यते
जपति (जप्)
आप्नोति (आप्)
पश्यति (दृश्)
जानाति (ज्ञा)
इच्छति (इष्)
जिघ्रति (घ्रा)
सहते (सह्)
वन्दते (वन्द्)
सेवते (सेव्)
वीक्षते (वि+ईक्ष्)
लभते (लभ्)
2. अधस्तनकर्तरिप्रयोगवाक्यानि कर्मणिप्रयोगवाक्यत्वेन परिवर्त्य लिखत – Change these active sentences into passive ones.
येषां धातूनां कर्तरिप्रयोगे 'य' दृश्यते तेषां धातूनां कर्मणिप्रयोगे एकः एव 'य'कारः दृश्यते। If the active form already has य (णिजन्त verbs), the passive has only one य.
यथा –
क्षालयति –
क्षाल्यते
सूचयति –
सूच्यते
गणयति –
गण्यते
चिन्तयति –
चिन्त्यते
रचयति –
रच्यते
ताडयति –
ताड्यते
अधस्तनवाक्यानि सावधानतया पठत – Read these sentences carefully
कर्तरिप्रयोगः
कर्मणि प्रयोगः
सः पुस्तकं स्थापयति। (स्था)
तेन पुस्तकं स्थाप्यते।
कार्यकर्ता गीतं गायति। (गा)
कार्यकर्त्रा गीतं गीयते।
अहम् आम्ररसं पिबामि। (पा)
मया आम्ररसः पीयते।
सौचिकः वस्त्रं माति। (मा)
सौचिकेन वस्त्रं मीयते।
'आ'कारान्तानां धातूनां कर्मणिप्रयोगे प्रायः 'ई' इति भवति। यथा – दा – दी, पा – पी Roots ending in आ usually take ई in the passive.
अभ्यासः
3. यथोदाहरणं यथोचितधातुरूपेण रिक्तस्थानानि पूरयत – Fill in the blanks with the right verb form, as in the example.
7. उपरितनवाक्येषु कर्मणि रूपाणि सन्ति। तानि चित्वा यथोदाहरणं स्ववाक्यानि लिखत – The sentences above contain passive forms. Pick them and write your own sentences, as in the example. (No strict checking — compare with the sample.)
1. अभिधीयते – हिमालयः नगाधिराजः इत्यभिधीयते।
2.
उच्यते – गुरुणा सत्यं वचनम् उच्यते।
3.
विचाल्यते – वायुना वृक्षः विचाल्यते।
4.
क्रियते – मया गृहकार्यं क्रियते।
5.
उच्यते – शिक्षकेण कथा उच्यते।
6.
उच्यते – मात्रा मधुरं वचनम् उच्यते।
7.
उच्यते – रामः धर्मस्य मूर्तिः इति उच्यते।
8.
प्रमुच्यते – सत्येन जनः भयात् प्रमुच्यते।
9.
अवाप्यते – परिश्रमेण सफलता अवाप्यते।
10.
लिप्यते – पद्मपत्रं जलेन न लिप्यते।
11.
धार्यते – राज्ञा मुकुटः धार्यते।
12.
हन्यते – सिंहेन मृगः हन्यते।
सूक्तिः – आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः। In hard times and in trouble, the wise never give up their enthusiasm.
Type ITRANS (e.g. pa.thyate → पठ्यते, shrUyate → श्रूयते, tena). Click a box first, then Insert.
A aa · i I · u U · RRi · e ai o au · M (ं) · H (ः) · k kh g gh ~N · ch Ch j jh ~n · T Th D Dh N · t th d dh n · p ph b bh m · y r l v · sh Sh s h · x (क्ष) · j~n (ज्ञ) · .a (ऽ) · | (।)